अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 141 to 150 of 193 verses
काश्यप

यस्य त्वया व्रणविरोपणमिङ्गुदीनाम् तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥
Metre: वसन्ततिलका

वत्स किं सहवासपरित्यागिनीं मामनुसरसि ।अचिरप्रसूतया जनन्या विना वर्धित एव ।इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् । (इति रुदती प्रस्थिता)

काश्यप

उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिम् बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥
Metre: वसन्ततिलका

भवगान् ।ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते ।

तदिदं सरस्तीरम् ।अत्र संदिश्य प्रतिगन्तुमर्हति ।

तेन हीमां क्षीरवृक्षछायामाश्रयामः ।

(सर्वे परिक्रम्य स्थिताः )

(आत्मगतम्) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । (इति चिन्तयति)

Showing 141 to 150 of 193 verses