अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 121 to 130 of 193 verses
(आकाशे)

रम्यान्तरः कमलिनीहरितैः सरोभिश् छायाद्रुमैर्नियमितार्कमयूखतापः । भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥
Metre: वसन्ततिलका

(सर्वे सविस्मयमाकर्णयन्ति)

जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ।

(सप्रणामं परिक्रम्य । जनान्तिकम्) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते ।

न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्य अपि तावत्समवस्था दृश्यते ।

उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥
Metre: उद्गीति

(स्मृत्वा) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।

अवैमि ते तस्यां सोदर्यास्नेहम् ।इयं तावद्दकिषिणेन ।

(उपेत्य लतामालिङ्ग्य) वनज्योत्स्ने चूतसंगता अपि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः ।

Showing 121 to 130 of 193 verses