अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 121 to 130 of 134 verses
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च)

इत इत आर्या गौतमी ।

(शकुन्तलामुपेत्य) जाते अपि लघुसंतापानि तेऽङ्गानि ।

आर्ये अस्ति मे विशेषः ।

अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (शिरसि शकुतलामभ्युक्ष्य) वत्से परिणतो दिवसः ।एहि उटजमेव गच्छामः । (इति प्रस्थिताः)

(आत्मगतम्) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः । (पदान्तरे स्थित्वा । प्रकाशम्) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)

(पूर्वस्थानमुपेत्य । सनिःश्वासम्)अहो विघ्नवत्यः प्राथितार्थसिद्धयः । महा हि

मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥
Metre: औपच्छन्दसिक

क्व नु खलु संप्रति गच्छामि ।अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि ।

(सर्वतोऽवलोक्य)

Showing 121 to 130 of 134 verses