(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च)
(शकुन्तलामुपेत्य) जाते अपि लघुसंतापानि तेऽङ्गानि ।
अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (शिरसि शकुतलामभ्युक्ष्य) वत्से परिणतो दिवसः ।एहि उटजमेव गच्छामः । (इति प्रस्थिताः)
(आत्मगतम्) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः । (पदान्तरे स्थित्वा । प्रकाशम्) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
(पूर्वस्थानमुपेत्य । सनिःश्वासम्)अहो विघ्नवत्यः प्राथितार्थसिद्धयः । महा हि
मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥
Metre: औपच्छन्दसिक
क्व नु खलु संप्रति गच्छामि ।अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि ।