अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 111 to 120 of 134 verses
मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।

भवतु । मोक्ष्यामि ।

कदा ।

राजा

अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन ।अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥
Metre: औपच्छन्दसिक

(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन)

(नेपथ्ये)

चक्रवाकवधुके आमन्त्रयस्व सहचरम् ।उपस्थिता रजनी ।

(ससंभ्रमम्) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमी इत एवागच्छति । तद्विटपान्तरितो भव ।

तथा । (इत्यात्मानमावृत्य तिष्ठति)