मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
एष राक्षसाद्रक्षितोऽस्मि ।
सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते ।एष पुनर्नगराद्देवीनां ज्ञप्तिहरः करभक आगतः
(सादरम्)इमम्बाभिः प्रेषितः ।
तथा । (इति निष्क्रम्य करभकेण सह प्रविश्य)एष भर्ता ।उपसर्प ।
जयतु जयतु भर्ता । देव्याज्ञापयति ।आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति ।
इतस्तपस्विकार्यम् ।इतो गुरुजनाज्ञा । द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् ।