नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति । आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥
Metre: मन्दाक्रान्ता
(आसनादुत्थाय)अभिवादये भवन्तौ ।
स्वस्ति भवते । (इति फलान्युपहरतः)
(सप्रणामं परिगृह्य)आज्ञापयितुमिच्छामि ।
विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि नेष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति ।