अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 81 to 90 of 133 verses
हन्त सिद्धार्थौ स्वः ।

(कर्णं दत्त्वा)अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।

(प्रविश्य)

जयतु जयतु भर्ता ।एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ।

तेन ह्यविलम्बितं प्रवेशय तौ ।

एष प्रवेशयामि । (इति निष्क्रम्य र्षिकुमाराभ्यां सह प्रविश्य)

(उभौ राजानं विलोकयतः)

अहो दीप्तिमतोऽपि विश्वसनीयतयास्य वपुषः ।अथवा उपपन्नमेतदस्मिन्न् ऋषिभ्यो नातिभिन्ने राजनि । कुतः

अध्याक्रान्ता वसतिरमुना अप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यःशब्दो मुनिरिति मुहुह्ः केवलं राजपूर्वः ॥
Metre: मन्दाक्रान्ता

गौतम अयं स बलभित्सखो दुष्यन्तः ।

Showing 81 to 90 of 133 verses