अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमितकृतोदयम् । विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥
Metre: द्रुतविलम्बितम्
न खलु दृष्टमात्रस्य तवाङ्कं समारोहति ।
मिथः प्रस्थाने पुनः शालीनतया अपि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यखाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥
Metre: वसन्ततिलका
तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः ।
कोऽपरोऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागमस्माकमुपहरन्त्विति ।
मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते । पश्य ।
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् । तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥
Metre: अनुष्टुप्