(इत्युभौ परिक्रम्योपविष्टौ )
माधव्य अनवाप्तचक्षुः फलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।
ननु भवानग्रतो मे वर्तते ।
सर्वः कान्तमात्मीयं पश्यति ।अहं तु तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
(स्वगतम्) भवतु ।अस्यावसरं न दास्ये ।
(प्रकाशम्) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥
Metre: उद्गीति
)विहस्य) यथा कस्य अपि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्याम् (तिन्तिण्याम्)अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना ।
न तावदेनां पश्यामि येनैवमवादीः ।