अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 41 to 50 of 133 verses
तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य ।

शमप्रधानेषु तपोधनेषु गूढं हि दातात्मकमस्ति तेजः । स्पर्शानुकूलेव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति ॥
Metre: उपेन्द्रवज्रा

यदाज्ञापयति स्वामी ।

विध्वंसतां ते उत्साहवृत्तान्तः ।

(निष्क्रान्तः सेनापतिः)

(परिजनं विलोक्य)अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं कुरु ।

यद्देव आज्ञापयति । (इति निष्क्रान्तः)

कृतं भवता निर्मक्षिकम् । सांप्रतमेतस्मिन्पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि सुखासीनो भवामि ।

गच्छाग्रतः ।

एतु भवान् ।

Showing 41 to 50 of 133 verses