सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥
Metre: अनुष्टुप्
(बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
(सप्रणामम्) प्रतिगृतीतं ब्राह्मणवचनम् ।
राजन्समिदाहरणाय प्रस्थिता वयम् ।एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः ।अपि च ।
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥
Metre: आर्या
अपि संनिहितोऽत्र कुलपतिः ।
इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति ।
साधयामस्तावत् (इति सशिष्यो निष्क्रान्तः)