अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 51 to 60 of 188 verses
सूत चोदयाश्वान्पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।

यदाज्ञापयत्यायुष्मन् । (इति भूयो रथ एवं निरूपयति)

(समन्तादवलोक्य) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।

कथमिव ।

किं न पश्यति भवान् ।इह हि

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफालभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास् तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥
Metre: शार्दूलविक्रीडितम्

कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।एते चार्वागुपवनभुवि छिन्नदर्भाङ्कुरायाम् नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ॥
Metre: उपजातिः

सर्वमुपपन्नम् ।

(स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् ।एतावत्येव रथं स्थापय यावदवतरामि ।

धृताः प्रग्रहाः ।अवतरत्वायुष्मान् ।

Showing 51 to 60 of 188 verses