(अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम ।इदं तावद्गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
(परिक्रम्यावलोक्य च)इदमाश्रमद्वारम् ।यावत्प्रविशामि (प्रविश्य । निमित्तं सूचयन्)
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥
(कर्णं दत्त्वा)अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । (परिक्रम्यावलोक्य च)अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते (निपुणं निरूप्य)अहो मधुरमासां दर्शनम् ।
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥
Metre: आर्या
यावदिमां छायामाश्रित्य प्रतिपालयामि (इति विलोकयन्स्थितः)