(अग्रतोऽवलोक्य)एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं संभावयामि (इति परिक्रामति)
हला शकुन्तले अत्रेव तावन्मुहूर्तं तिष्ठ यावत्त्वयोपगतया लतासनाथ इव अयं केसरवृक्षकः प्रतिभाति ।
अतः खलु प्रियंवदासि त्वम् ।
प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा ।अस्याः खलु
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥
Metre: आर्या
हला शकुन्तले इयं स्वयं वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका ।एनां विस्मृतासि ।
तदात्मानमपि विस्मरिष्यामि । (लतामुपेत्यावलोक्य च) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः । (इति पश्यन्ती तिष्ठति)
अनसूये जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति ।
यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति ।