(पदान्तरे स्थित्वा ।सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति ।
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥
Metre: आर्या
(सर्वा राजानं दृष्टा किंचिदिव संभ्रान्ताः)
आर्यण्न खलु किमप्यत्याहितम् ।इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । (इति शकुन्तलां दर्शयति)
(शकुन्तलाभिमुखो भूत्वा)अपि तपो वर्धते ।
(शकुन्तला साध्वसादवचना तिष्ठति)
इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घमुपहर ।इदं पादोदकं भविष्यति ।
भवतीनां सूनृतया एव कृतमातिथ्यम् ।
तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।