(शकुन्तला शृङ्गारलज्जां रूपयति)
(उभयोराकारं विदित्वा । जनान्तिकम्) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् ।
इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न युवयोर्वचनं श्रोष्यामि ।
वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ।
आर्य अनुग्रह इवेयमभ्यर्थना ।
भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः ।इयं च वः सखी तदात्मजेति कथमेतत् ।
शृणोत्वार्यः ।अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।