त्रिशङ्कुरिवान्तरा तिष्ठ ।
कृत्ययोर्भिन्नदेशत्वाद्द्वैधीभवति मे मनः । पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा ॥
Metre: अनुष्टुप्
(विचिन्त्य) सखे त्वमम्बया पुत्र इति प्रतिगृहीतः ।अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति ।
न खलु मां रक्षोभीरुकं गणयसि ।
(सस्मितम्) कथमेतद्भवति संभाव्यते ।
यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।
(सगर्वम्) तेन हि युवराजोऽस्मीदानीं संवृत्तः ।
(स्वगतम्) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु ।एनमेवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य ।