(अपवार्य)एषा इदानीमनुकूला तेऽभ्यर्थना ।
(स्मितं कृत्वा) रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापय इति ।
यद्देव आज्ञापयति । (इति निष्क्रान्तः)
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥
Metre: अनुष्टुप्
(सप्रणामम्) गच्छतां पुरो भवन्तौ ।अहमप्यनुपदमागत एव ।
विजयस्व (इति निष्क्रान्तौ)
माधव्य अप्यस्ति शकुन्तलादर्शने कुतूहलम् ।
प्रथमं सपरिवाहमासीत् ।इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।