अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 101 to 110 of 134 verses
कथं गते एव ।

अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।

किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः ।अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मतांरौ ॥
Metre: वसन्ततिलका

न माननीयेष्वात्मानमपराधयिष्ये । (इत्युत्थाय गन्तुमिच्छति)

सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था ।

उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥
Metre: आर्या

(इति बलादेनां निवर्तयति)

पौरव रक्ष विनयम् । मदनसंतप्ता अपि न खल्वात्मनः प्रभवामि ।

भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य ।

गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥
Metre: अनुष्टुप्