अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 81 to 90 of 134 verses
अलमलमायासेन ।

संदष्टसुकुमशयनान्याशुक्तान्तबिसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥
Metre: आर्या

इतः शिलातलैकदेशमलंकरोतु वयस्यः ।

(राजोपविशति । शकुन्तला सलज्जा तिष्ठति)

द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति ।

भद्रे नैतत्पर्हार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।

आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष वो धर्मः ।

नास्मात्परम् ।

तेन हीयमावयोः प्रियसखी त्वामुद्दिश्य इदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् ।

भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।

Showing 81 to 90 of 134 verses