रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति ।
किं नियोगो वां विकल्प्यते ।
तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि ललितपदबन्धनम् ।
हला चिन्तयाम्यहम् ।अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।
अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियम् श्रिया दुरापः कथमीप्सितो भवेत् ॥
Metre: वंशस्थम्
अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्री शारदीं ज्योत्स्नां पटान्तेन वारयति ।
(सस्मितम्) नियोजितेदानीमस्मि । (इत्युपविष्टां चिन्तयति)
स्थाने खलु विस्मृत निमेषेण चक्षुषा प्रियामवलोकयामि । यतः
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः । कण्टकितेन प्रथयति मयनुरागं कपोलेन ॥
Metre: आर्या