(प्रियंवदामाश्लिष्य) सखि प्रियं मे । किं त्वद्यैव शकुन्तला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु ।
तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका ।
तदिमां हस्तसंनिहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दुर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
तथा क्रियताम् । (अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति)
(नेपथ्ये) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
(कर्णं दत्त्वा)अनसूये त्वरस्व त्वरस्व ।एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते ।
सखि एहि । गच्छावः । (इति परिक्रामतः)
(विलोक्य)एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति ।उपसर्पाव एनाम् ।