सखि उचितं न ते मङ्गलकाले रोदितुम् ।
आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्ताव् ऋषिकुमारकौ)
इदमलंकरणम् ।अलंक्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः)
न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहर इति । तत इदानीम्
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतम् निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।अन्येभ्यो वनदेवताकरतलैरापर्वभोगोत्थितैर् दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥
Metre: शार्दूलविक्रीडितम्