अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 71 to 80 of 193 verses
(इत्युपसर्पतः)

(ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला)

(शकुन्तलां प्रति) जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।

वत्से वीरप्रसविनी भव ।

वत्से भर्तुर्बहुमता भव ।

(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)

(उपसृत्य) सखि सुखमज्जनं ते भवतु ।

स्वागतं मे सख्योः ।इतो निषीदतम् ।

उभे (मङ्गलपात्राण्यादाय ।उपविश्य) हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः ।

इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं मे सखीमण्डनं भविष्यति । (इति बाष्पं विसृजति)

Showing 71 to 80 of 193 verses