अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 71 to 80 of 134 verses
हला चिन्तितं मया गीतवस्तु ।असंनिहितानि पुनर्लेखनसाधनानि ।

एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।

(यथोक्तं रूपयित्वा) हला शृणुतमिदानीं संगतार्थं न वेति ।

अवहिते स्वः ।

(वाचयति)

तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्रावपि । निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि ॥
Metre: गीति

(सहसोपसृत्य)

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥
Metre: आर्या

(विलोक्य सहर्षमुत्थाय) स्वागतमविलम्बिनो मनोरथस्य ।

(शकुन्तलाभ्युत्थातुमिच्छति)

Showing 71 to 80 of 134 verses