(प्रियंवदामवलोक्य) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ।
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥
Metre: द्रुतविलम्बितम्
वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय ।
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररसना चोर्वी सखी च युवयोरियम् ॥
Metre: अनुष्टुप्
(सदृष्टिक्षेपम्)अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति ।एहि । संयोजयाव एनम् । (इत्युभे प्रस्थिते)
हला अशरणास्मि ।अन्यतरा युवयोरागच्छतु ।
पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते)