(शकुन्तलां विलोक्य) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः ।
(शकुन्तला व्रीडां रूपयति)
गौतम एह्येहि ।अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः ।
अये अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः ।
(ततः प्रविशति स्नानोत्तीर्णः काश्यपः)।