अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 91 to 100 of 165 verses
भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमशङ्कमानः प्रतिपत्स्ये ।

(अपवार्य)आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा ।

मा तावत् ।

कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥
Metre: उपजातिः

शार्ङ्गरव विमर त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् ।

(अपवार्य)इदमवस्थ्हान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ।आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्)

पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ।

(कर्णौ विधाय) शान्तं पापम् ।

व्यपदेशमाविलयितुं किमीहसे जनमिमम पातयितुम् । कूलं कषा इव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥
Metre: उद्गीति

भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।

Showing 91 to 100 of 165 verses