अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 91 to 100 of 275 verses
वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः । कुतः

मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥
Metre: द्रुतविलम्बितम्

तिष्ठ तावत् ।अनेन दण्डककाष्ठेन कन्दर्पबाणं नाशयिष्यामि । (इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति)

(सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।

नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये ।

तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय इति ।

ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय ।

इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्यनुगच्छति)

एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वोपविष्टौ)

लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)

Showing 91 to 100 of 275 verses