(मुद्रास्थानं परामृश्य) हा धिग्घा धिक् ।अङ्गुलीयकशून्या मेऽङ्गुलिः । (इति सविषादं गौतमीमवेक्षते)
नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।
(सस्मितम्)इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
अत्र तावद्विधिना दर्शितं प्रभुत्वम् ।
श्रोतव्यमिदानीं संवृत्तम् ।
नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् ।
तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः ।
त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्हस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।