अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 111 to 120 of 165 verses
एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवान्मधुभिराकृष्यते विषयिणः ।

महाभाग नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।

तापसवृद्धे ।

स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनास्त्वमपत्यजातम् अन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥
Metre: वसन्ततिलका

(सरोषमनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणछन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ।

(आत्मगतम्) संदिग्धबुद्धिमां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया

मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥
Metre: वसन्ततिलका

(प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते ।

सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्यासमुपगता ।

इत्थमात्मकृतं चापलं दहति ।

Showing 111 to 120 of 165 verses