अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 111 to 120 of 193 verses
(ऋक्छन्दसाशास्ते)

अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां बह्नयः पावयन्तु ॥
Metre: उपजातिः

प्रतिष्ठस्वेदानीम् । (सदृष्टिक्षेपम्) क्व ते शार्ङ्गरवमिश्राः । (प्रविश्य)

भगवन्निमे स्मः ।

भगिन्यास्ते मार्गमादेशय ।

इत इतो भवती । (सर्वे परिक्रामन्ति)

भो भोः संनिहितास्तपोवनतरवः ।

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डना अपि भवतां स्नेहेन या पल्लवम् ।आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥
Metre: शार्दूलविक्रीडितम्

(कोकिलरवं सूचयित्वा)

अनुमतगमना शकुन्तला तरुभिरयं वनवासबन्धुभिः । परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥
Metre: अपरवक्त्र

Showing 111 to 120 of 193 verses