यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥
Metre: शार्दूलविक्रीडितम्
हला शकुन्तले अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगलम् ।
जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः ।आचारं तावत्प्रतिपद्यस्व ।
काश्यप वत्से । ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । सुतं त्वमपि संराजं सेव पूरुमवाप्नुहि ॥
Metre: अनुष्टुप्
भगवान्वरः खल्वेषः । नाशीः ।
वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व ।