अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।
संकल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् । चूतेन संश्रितवती नवमालिकेयम् अस्यामहं त्वयि च संप्रति वीतचिन्तः ॥
Metre: वसन्ततिलका
इतः पन्थानं प्रतिपद्यस्व ।
(सख्यौ प्रति) हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
अयं जनः कस्य हस्ते समर्पितः । (इति बाष्पं विहरतः)
अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला ।
तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
(गतिभङ्गं रूपयित्वा) को नु खल्वेष निवसने मे सज्जते । (इति परावर्तते )