अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 151 to 160 of 193 verses
(जनान्तिकम्) हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्य्यटति दुष्करमहं करोमीति ।

सखि मैवं मन्त्रयस्व ।

एषा अपि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥
Metre: आर्या

शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।

आज्ञापयतु भगवान् ।

काश्यप

अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस् त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥
Metre: शार्दूलविक्रीडितम्

गृहीतः संदेशः ।

वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।

न खलु धिमतां कश्चिदविषयो नाम ।

Showing 151 to 160 of 193 verses