(शकुन्तला पित्ः पादयोः पतति)
(सख्यावुपेत्य) हला द्वे अपि मां सममेव परिष्वजेथाम् ।
(तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
अनेन संदेहेन वामाकम्पितास्मि ।
मा भैषीः ।अतिस्नेहः पापशङ्की ।
युगान्तरमारूढः सविता । त्व्वरतामत्रभवती ।
(आश्रमाभिमुखी स्थितवा) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥
Metre: वसन्ततिलका