जाते परिहीयते गमनवेला । निवर्तय पितरम् ।अथवा चिरेण अपि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
वत्से उपरुध्यते तपोऽनुष्ठानम् ।
(भूयः पितरमाश्लिष्य तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व ।
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥
Metre: आर्या
गच्छ । शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनश्च)
(शकुन्तलां विलोक्य) हा धिग्घा धिक् ।अन्तर्हिता शकुन्तला वनराज्या ।
(सनिःश्वासम्)अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
तात शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ।