सा त्वमितः पतिकुलं प्राप्य
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृविप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥
Metre: शार्दूलविक्रीडितम्
एतावान्वध्हूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय ।
वत्से परिष्वजस्व मां सखीजनं च ।
तात इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ।
वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
(पितरमाश्लिष्य) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । तनयमचिरात्प्राचीवार्कं प्रसूय च पावनम् मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥
Metre: हरिणी