(सविस्मयम्) देव अद्भुतं खलु संवृत्तम् ।
देव परावृत्तेषु कण्वशिष्येषु
सा निन्दनी स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥
भगवन्प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् ।
(विलोक्य) विजयस्व (इति निष्क्रान्तः)