अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 121 to 130 of 165 verses
अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः ।अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥
Metre: अनुष्टुप्

अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ ।

शार्ङ्ग् (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् ।

आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥
Metre: उपजातिः

भोः सत्यवादिन्नभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते ।

विनिपातः ।

विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् ।

शार्ङ्गरव किमुत्तरेण ।अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति)

तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥
Metre: अनुष्टुप्

गौतमि गच्छाग्रतः । (इति प्रस्थिताः)

Showing 121 to 130 of 165 verses