(अङ्गुलीयकं विलोक्य)अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् ।
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।अरुणनखमनोहरासु तस्याश् च्युतमसि लब्धपदं यदङ्गुलीषु ॥
Metre: पुष्पिताग्रा
यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
भोः इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्यासं प्रापिता ।
मम अपि कौतूहलेनाकारित एषः ।
श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।
पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् । तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥
Metre: वसन्ततिलका
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।