अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 81 to 90 of 165 verses
कुतोऽयमसत्कल्पनाप्रश्नः ।

शा

मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥

विशेषेणाधिक्षिप्तोऽस्मि ।

जाते मुह्हूर्तं मा लज्जस्व ।अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।

(शकुन्तलां निर्वर्ण्य ।आत्मगतम्)

इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारम् न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥
Metre: मालिनी

(इति विचारयन्स्थितः)

(स्वगतम्)अहो धर्मापेक्षिता भर्तुः ।ईदृशं नाम सुखोपनतं रूपं दृष्टा कोऽन्यो विचारयति ।

भो राजन्किमिति जोषमास्यते ।

Showing 81 to 90 of 165 verses