(सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निवर्तयितुम् ।
शृणु ।इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि ।
तावदेनां लज्जावनतमुखीं परिष्वज्य तातपाश्यपेनैवमभिनन्दितम् । दिष्ट्या दूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येव अशोचनीयासि संवृत्ता ।अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।
अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ।
अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥
Metre: अनुष्टुप्