अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 51 to 60 of 165 verses
देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः ।

(शकुन्तलां दृष्ट्वा)अथात्र भवती

का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥
Metre: आर्या

देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।

भवतु ।अनिर्वर्णनीयं परकलत्रम् ।

(हस्तमुरसि कृत्वा ।आत्मगतम्) हृदय किमेवं वेपसे ।आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ।

(पुरो गत्वा)एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति ।

अवहितोऽस्मि ।

(हस्तानुद्यम्य) विजयस्व राजन् ।

सर्वानभिवादये ।

Showing 51 to 60 of 165 verses