अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 41 to 50 of 165 verses
इत इतो भवन्तः ।

शारद्वत ।

महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥
Metre: शिखरिणी

स्थाने भवान्पुरप्रवेशादित्थं भूतः संवृत्तः ।अहमपि

अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥
Metre: आर्या

(निमित्तं सूचयित्वा)अहो किं मे वामेतरन्नयनं विस्फुरति ।

जाते प्रतिहतममङ्गलम् ।सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति)

(राजानं निर्दिश्य भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् ।

भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः

भवन्ति नंरास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥
Metre: वंशस्थम्

Showing 41 to 50 of 165 verses