निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साहुजनस्याभिषेककाल इति सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि ।
२ मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि ।
(समन्तादवलोक्य) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते ।
४अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् ।
किं तु सख्या आदरो मया मानैयितव्यः ।
भवतु ।अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी ।अपराच पृष्ठतस्तस्याः)
आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) । दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥
Metre: गीति
परभृतिके किमेकाकिनी मन्त्रयसे ।
मधुकरिके चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
(सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः ।
मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् ।