एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
आवुत्त्पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यमिति ।
न तस्मिन्महाअर्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि ।
तस्य दर्शनेन भर्त्राभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् ।
ननु भण ।अस्य कृते मात्स्यिकभर्तुरिति । (इति पुरुषमसूयया पश्यति)
भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तत्शौण्डिकापणमेव गच्छामः ।
प्रवेशकः । (ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)