अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 31 to 40 of 197 verses
एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।

मातले कतमस्मिन्प्रदेशे मारीचाश्रमः ।

(हस्तेन दर्शयन्)

वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
Metre: शार्दूलविक्रीडितम्

नमस्ते कष्टतपसे ।

(संयतप्रग्रहं रथं कृत्वा)एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।

स्वर्गादधिकतरं निर्वृतिस्थानममृतह्रदमिवावगाढोऽस्मि ।

(रथं स्थापयित्वा)अवतरत्वायुष्मान् ।

(अवतीर्य) मातले भवान्कथमिदानीम् ।

संयन्त्रितो मया रथः । वयमप्यवतरामः ।