अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 41 to 50 of 197 verses
(तथा कृत्वा)इत आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवताम् ऋषीणां तपोवनभूमयः ।

ननु विस्मयादवलोकयामि ।

प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥
Metre: शार्दूलविक्रीडितम्

उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य ।आकाशे)अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।

(कर्णं दत्त्वा)अये प्रतिपाल्यावसरः खलु प्रस्तावः ।

(राजानमवलोक्य)अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान्यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।

यथा भवान्मन्यते (इति स्थितः)

आयुष्मन्साधयाम्यहम् । (इति निष्क्रान्तः)

(निमित्तं सूचयित्वा)

मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥
Metre: अनुष्टुप्

Showing 41 to 50 of 197 verses