तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
चित्रे निवेश्ये परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥
Metre: वसन्ततिलका
यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥
Metre: शिखरिणी
तेन हि लघु परित्रायतामेनां भवान् । मा कस्य अपि तपस्विन इङ्गुदीतैरचिक्कणशीर्षस्य हस्ते पतिष्यति ।
परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः ।
अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः ।
निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु